• NIIMH, Hyderabad, Telangana

Stele

SAHI Id: SAHI-228
Sahi Flag: NIIMH/SAHI/CO/SR/SI/PHHO/1186AD
Resource Type: Archaeological Inscription
Source Location: Village: Angkor
Source State/Province/UT: Khyber Pakhtunkhwa
Source Country: Cambodia
Source-Site: This Inscription is engraved on the four faces of a stele in Ta Prohm temple, which is situated about 1 km to the east of Angkor Thom and on the southern edge of the East Baray.
Source Current Location:
Source Reference: Inscriptions of Kambuja by R. C Majumdar, Page Number- 459 (No. 177), Published by The Asiatic Society, 1 Park Street, Calcutta, 1953.
Source Script: Kutila
Source Language: Sanskrit
Time Period: 1186 A. D.
History and Significance: This inscription belonging to the king Jayavarman VII of Khmer Kingdom
Material of the Inscription/Sculpture: Stele
Medical Information: It mentions the dveśata ārogyaśālā (102 Hospitals) established in different parts of Cambodia, and the donation of medicinal provisions for the treatment of diseases.
Description: This inscription is engraved on the four faces of a stele in the Ta Prohm temple situated about 1 km east of Angkor Thom and on the southern edge of the big tank called East Baray. It belongs to the period of King Jaya-Varman VII of the Khmer Kingdom. This inscription is written on four faces of a stele and contains 290 lines. It encompasses 145 verses in Sanskrit. The inscription mentions that there were dveśata ārogyaśālā (102 Hospitals) in the different parts of the country. Vrihi (Paddy) is used to treat the roga (diseases) of the demigods. It also gives a long list of things provided for them. It includes tilā (sesame seed), ghṛtaṃ (ghee), dadhi (curd), kṣīra (milk), madhu (honey), tailaṃ (oil), taṇḍulā (rice), svarṇa (gold), rūpya (silver), vajra (diamond), mauktika (pearl), vaidūryya (cat’s eye), tāmra (copper), kaṃsa (bronze), loha (iron), sīsa (lead), etc., The inscription also clearly specifies the quantity of each donated item. It includes various items for ailments like leprosy (guliyaka) and hemorrhoids (arshas). The medicinal items include: chandhanam (sandalwood), tripanasa, madhu (honey), ghṛtaṃ (ghee), yavani (ajwain), pippali (long pepper), reṇu (nirgundi), punnaga, jathiphala (nutmeg), kshaara (alkaline substances), two types of karppura (camphor), sharkara (sugar), shatapushpa (dill), dhaanya (coriander), karkola (meswak) and maricha (pepper), sarshapa (sesame seeds), pathya (haritaki), tvacha (Cinnamon), darvi (turmeric), medicinal compounds like amla (Indian gooseberry), charma (cotton cloth), kalka (paste) of Dashamoola, lashuna (garlic), medicines for treatment of hemorrhoids (arshas), hingu (Asafoetida), 7 types of oil including Rambha (banana), nidigdhika (kantakari), shunti (ginger), palandu (onion), and lashuna (garlic).
Text/Transcript: सम्भार विस्तरविभावितधर्म्म काय- सम्भोगनिर्मितिवपुर्भगवान् विभक्तः । यो गोचरो जिनजिनात्मजदेहभाजां बुद्धाय भूतशरणाय नमोऽस्तु तस्मै ॥ १ बन्दे निरुत्तरमनुत्तम् बोधिमार्ग्गं भूतार्थदर्शननिरावरणैकदृष्टिम् । धर्म्मन्त्रिलोकविदितामरवन्द्यवन्द्य- मन्तर्वसत्षड़रिषण्डविखण्डखड़्गम् ॥ २ सम्यगविमुक्तिपरिपन्थितया विमुक्त- सोङ्गोऽपि सन्ततगृहीत परार्थसङ्गः । सङ्गीयमानजिनशासनशासितान्यान् सङ्गोऽभिसंहितहितप्रभवोऽवताद् वः ॥ ३ त्रैलोक्यकाङ्क्षितफलप्रसवैकयोनि- रग्राङ्गुलिविटपभूषितबाहुशाखः । हेमोपवीतलतिकापरिवीत कायो लोकेश्वरो जयति जङ्गमपारिजातः ॥ ४ मुनीन्द्रवर्म्माग्रसरीं गुणाढ्या- न्धीमद्भिरध्यात्मदृशा निरीक्ष्याम् । निरस्तनिश् शेषविकल्पजालां भतया जिनानां जननीं नमध्वम् ॥ ५ आसीदखण्डमनुदण्डधरावनीन्द्र- वन्द्यो वरश् श्रुतवतां श्रुतवर्म्मसूनूः । श्रीश्रेष्ठवर्मनृपतिश् शुचिभिर्यशोभिश् श्रेष्टोऽवदातवसुधाधरवंशयोनिः ॥ ६ श्रीकम्बुवंशाम्बरभास्करो यो जातो जयादित्यपुरोदयाद्रौ । प्राबोवयत् प्राणहृदम्बुजानि तेजानिधिश श्रेष्ठपुराधिराजः ॥ ७ जाता तदीये नवगीतकीर्त्ति- चन्द्रोल्लसन्मातृकुलाम्बुराशौ । रराज लक्ष्मीरिव या सतीना- मग्रे सरी कम्बुजराजलक्ष्मीः ॥ ८ भर्त्तो भुवो भवपुरे भववर्म्म देवो विभ्राजमानरूचिरञ्जितमण्डलो यः । पूर्णः कलाभिरवनीन्द्रकुलप्रसुनेः कर्त्तामृतांशुरिव तापहरः प्रजानाम् || ९ सर्व्वानवद्यविनयद्युतिविक्रमो य- स्तद्वंशजो जनितविश्वजनीनवृत्तिः । श्रीहर्षवर्म्मनृपतिर्हतवैरिहर्षो जन्येषु दिङ्मुखविकीर्णयशोदितानः ॥ १० महीभुजा श्री जयराजचूड़ा- मणिर्महिष्यामुदपादि तेन । तस्यां यशश्चन्द्रमरी चिगौरा गौरीव गौरीगुरुणाग्रदेव्यम् ॥ ११ वागीश्वरीवातिशयैर्गिरां या धात्रीव धृत्या कमलेव कान्त्या । अरुन्धतीव नवगीतवृत्त्या त्यागादिना मूर्त्तिमतीव मैत्त्री ॥ १२ श्रीमद्यशोधरपुरेऽधिगताधिराज्यो राजा जितारिविसरो जयवर्म्मदेवः । आवारिधेः प्रतिदिशन्निचखान कीर्त्ति- स्तम्भ न् महीधरपुराभिजनास्पदो यः ॥ १३ तद्भगिनेयो विनयोर्जित‍श् श्री- महीधरादित्य इति प्रतीतः । श्रीसूर्य्यधर्म्मावनिपालमातृ- जघन्यजो यो विजितारिवर्ग्गः ॥ १४ श्लाध्यावदातान्वयदीपकेन विराजिता राजपतोन्द्रलक्ष्मीः । विख्यातचारित्रवरेण राज- पतीश्वरग्रामकृतस्थितिर्या ।। १५ तयोस्तनूजो महितद्वजेन्द्रो द्विजेन्द्रवेगो द्विजराजकान्तः । दिक्चक्रवालोत्कटकीर्त्तिगन्धो योऽधीश्वरश् श्रीधरणीन्द्रवर्म्मा ।। १६ शाक्येन्दुशासनसुधाजनितात्मतृप्ति- र्भिक्षुद्विजार्थिजनसात्कृतभूतिसारः । सारञ्जिघृक्षुरशुभायतनादसारात् कायादजस्रजिनपादकृतानतिर्यः ॥ १७ एषा श्रीजयवर्म्मदेवनृपतिन्देदीप्यमानौजसन् तस्माद्वीरमजीजनत् क्षितिभुजश् श्रोहर्षवर्म्मात्मजा । ब्रह्मर्षरिव देवराज मदितिदेवी सुधर्म्माश्रितं गोन्तुं गां शतकोटिहेति विहतारातिप्रवीरं रणे ।। १८ शण्मातुरस्य विविधन्तु वपुः प्रहृष्टै- रेकं कृतं विधिरवेक्ष्य विधित्सुरत्थेम् । गाढ़ोपगूहनमुदा हरशाङ्गयनङ्गा- दैश्वर्य्यशौर्य्यवपुरेकनिधिं व्यधाद् यम् ॥ १९ यं प्राप्य कान्तमनवद्यगुणैकरागी म.शसितन्तु धरणीन्द्रभुजाङ्गजातम् । प्राच्यान्निकामगणिका रुचिमप्यपास्य धात्री रतिं विदधती सुषुवे शुभानि ॥ २० आस्फालितभ्रमितवैरिकरीन्द्रशैल- राजो भुजोरतिबलेन रणाम्बुधौ यः । लक्ष्मीसित द्विरदराजतुरङ्गरत्र- प्राप्तो हरेर्जलधिमन्थनमन्वकार्षित् ॥ २१ शङ्के समस्तगुणसंमतिरंशुमालि- वंशोद्भवोऽवनिपतोन्द्रवरङ्गत्नम् । गच्छत्ययम्मम कृते समितीत्यतीव- हर्षा यमाजिकमला दृढमालिलिङ्गे ।। २२ यस्याब्धिपारगिरिकाननगीतकीर्त्ति श्रुत्वोत्तरोत्तरगतियुधि विद्रुतारिः । धाम स्मरन्निब विड़म्बितवान् सिसृक्षून् दाक्षीननन्तगमनानवनीं प्रमातुम् ॥ २३ मन्ये यदीययशसां सदृशो यदि स्या- द्रत्नाकरश्च भुवनत्रितयञ्च विष्णुः । नाहर्त्तमूध्वेमवनीमशकत् समुद्रात् कोटिक्रमैरपि न लङ्घयितुञ्च लोकान् ।। २४ अनेकधानेकजगत्सुभिन्नो- ऽप्यात्मैकता तु स्फुटमस्य सत्या । सुखानि दुःखानि यदात्मभाजा- मात्मन्यधात् सुहृदये यदीये ।। २५ संप्राप्य यन्मखमखण्डमतीवतृप्ति- राखण्डलो नु जनमेजयशापतापम् । उत्सृज्य हृष्टहृदयस्त्रिदिवस्य भूमे- स्तेने विभूतिभिरभूमिभवाभिरैक्यम् ।। २६ अनङ्गकान्तोऽद्भुतशस्त्रशिक्षस् संमोहनेनैव चकार निद्राम् । टुर्व्वारवैरीन्द्रकुले रणे यो विनिद्रतान्तत्प्रमदासमूद्दे ॥ २७ चम्पागतस्य युधि यस्य गृहीतमुक्त- तद्भुधरस्य चरितामृतमन्यभूपैः । श्रुत्वा नतैर्हृतमिवाञ्जलिभिर्वराङ्गे सिक्तं महोहुतवहो दिततापशान्त्यै ॥ २८ सुवर्णदण्डव्यजनातपत्र- मायूरकेतुध्वजपझचीरैः । राज्याभिषेके शिविकां नृपार्हां हैमीं गुरौ प्रादित दक्षिणां यः ।। २९ दिदेश यश् श्रीजयमङ्गलार्थ- देवाभिधानं प्रियमास्पदञ्च । ग्रामं गुरौ राजपतीन्द्रपूर्व्वं कुले च तस्यावनिभृत्कुलाख्याम् || ३० भक्तया च यो मातरि रत्नमञ्च- शय्यालसद्राजगृहैकभागम् । हिरण्ययष्टिध्वजचामरादि- रम्याञ्च हैमीं शिविकामयच्छत् ।। ३१ भूभागमेकञ्च विभूतिभारै- राढ्यीकृतं प्रादित पूर्व्वजे यः । रत्नस्फुरन्तीं शिविकाञ्च हेम- दण्डध्वजाद्यैरभितो विकीर्णाम् ।। ३२ तस्याग्रजस्याग्रवधूषु देवी- स्वामिन्यभिख्यामपि यो व्यतारीत् । तदीयमुख्यानुचरेषु सेना- पतेश्च राजानुचरेष्विवाख्याम् || ३३ विभज्य भोज्याद्यपि यश्चतुर्धा- दिशन् गुरौ मातरि पूर्व्वजे पि । भक्त्यावशिष्टं बुभुजे हिरण्य- किरीटरत्नादिषु कैव वाणी ॥ ३४ उत्पादिता तेन भुजा गृहीत- धात्र्यां पुरी राजविभारनाम्नी । रत्नोल्लसत्स्वर्ण विभूषिताङ्गी मुनीन्द्रमातुर्भरणे नियुक्ता ।। ३५ प्रातिष्ठिपच्छ्री जयराजचूड़ा- मणिं मणिद्योतितपुण्यदेहाम् । तस्याञ्जनन्या जिनमातृमूर्त्तिं मूर्त्तिं समूर्त्तिद्युशशाङ्करूपैः ।। ३६ सोऽतिष्ठिपच्छ्रीजयमङ्गलार्थ- देवं तथा श्रीजयकीर्त्तिदेवम् । मूर्त्तिं गुरोर्दक्षिणवाम . . . य‍ष् षष्टिं शते द्वे परिवारदेवान् ॥ ३७ तस्यास् सपरिवारायाः पूजाङ्शानि दिने दिने । द्रोणौ पाक्याक्षताः प्रस्थौ त्रयस्सप्ततिखारिकाः ॥ ३८ तिला एकादश प्रस्था द्रोणौ द्वौ कुदुवावपि । द्वौ द्रोणौ कुदुवौ मुद्राः कङ्क प्रस्थाश्र्वतुद्देश ॥ ३९ घृतं घटी त्रिकुदुवं दधिक्षीरमधूनि तु । अधिकान्येकशस्तस्मात् सप्तप्रस्थैर्गुद्दः पुनः ॥ ४० घटी प्रस्थौ द्विकुदुवौ तैलं प्रस्थत्रयंस्तथा । कुदुवौ द्वौ तरुफलस्नेहस्तु कुदुव त्रयम् ॥ ४१ पूजोपकरणादीनि फलशाकमुखानि तु । नोक्तान्यत्र प्रसिद्धत्वाद्विज्ञेयानि यथोचितम् ।। ४२ देववस्त्रादिवस्राणां युगलानि शतानि षट । चत्वारिंशच्च युगलान्यध्यर्द्धयुगले अपि ।। ४३ देवतापादविन्यासमश कार्थप्रसारिताः । चीनांशुकमयाः पञ्चचत्वारिंशत्पटा अपि ।। ४४ सत्ताण्यध्यापकाध्येतृवासिनां प्रतिवासरम् । स्वार्य्यश्चतुर्द्दश द्रोणः पञ्च प्रस्थाश्च तण्डुलाः ।। ४५ अष्टादशोत्सवे प्यत्र सङ्क्रान्ते प्रतिवत्सरम् । अष्टम्याञ्च चतुर्दश्यां पञ्चदश्याञ्च पक्षयोः ॥ ४६ विशिष्टास्तण्डुलाः पाक्याः खार्य्यः पञ्चदशाधिकम् । सहस्त्रं षष्टिरष्टौ च द्रोणेन सह पिण्डिताः ॥ ४७ चत्वारिंशत्तिलाः खार्य्यः खारीभ्यां मुद्रकास्ततः । त्रिद्रोणैश्चाधिकाः पञ्चविंशतिर्घटिका घृतम् ॥ ४८ एकत्रिंशद्दधिक्षीरे प्रत्येकं घटिका मधु । एकोनविंशतिस्तेन गुद्दस्तुल्योऽथ तैलकम् ॥ ४९ कुदुवौ घटिकाः पञ्चदशाथाष्ट शतानि च । द्वयशीतिर्देववस्रादियुगलानि सहस्रकम् ॥५० अयुते द्वे सहस्राणि खार्य्योऽष्टौ पाक्यतण्डुलाः । चत्वारिंशत्तथा द्रोणः पिण्डिताः प्रतिवत्सरम् ॥ ५१ नियुतञ्चायुतं द्वे च सहस्रे व्रीहियश् शतम् । तदर्था एकषष्टिश्च सञ्चयाय चतुर्गुणैः ॥ ५२ ग्राह्माश्चतुस्सहस्राणि ग्रामादिभ्यश्च तण्डुलाः । खारिका नवतिस्तिस्रो द्रोणो द्वौ कुदुवावपि ॥ ५३ खार्य्यश् शतं त्रयोशीतिर्द्रोणौ प्रस्थाश्च षट् तिलाः । मुद्रा द्रोणौ दश प्रास्था द्वौ च खार्य्यश् शते दश ॥ ५४ चतुश्शतानि घटिका नव प्रस्था घृतं दधि । सप्त प्रस्थास्तथा सप्त घट्यः पञ्च शतानि च ॥ ५५ प्रस्थोऽशीतिष् षट् च घट्यः पयः पञ्च शतानि च । मधु पञ्च शतान्यष्टत्रिशच्च प्रस्थपञ्चलम् ॥ ५६ चतुश्शतानि घटिका गुहोऽशीत्युत्तराणि च । अथ त्रयोदश प्रस्थास्तैलन्तत्परिमाणकम् ॥ ५७ पञ्च प्रस्थाः पञ्च घट्यस् स्नेहस्तरुफलस्य च । तन्तुवायगृहाद् ग्रामादापणादेश्च वाससाम् ।। ५८ युगलानां सहस्राणि चत्वारिंशच्च पञ्चकम् । ग्रहीतव्यानि नवतिस्तथार्द्धं युगलस्य च ।। ५६ मधूच्छिष्टस्य भारास्तु गणिता दश सप्त च । अष्टादश तुलाः पञ्च कट्टयो नव पणास्तथा ।। ६० सीसानामेकपञ्चाशद्भारा दश तुला अपि । तिस्रश्च कट्टिकैकश्चो द्वे दास्यौ द्वौ च दन्तिनौ ॥। ६१ राज्ञा दत्तास् स्वयन्दत्ता ग्रामवद्भिश्च भक्तितः । सहस्रत्रितयं ग्रामाश्चत्वारिंशत्तथा शतम् ।। ६२ चतुश्शताः पुमांसोऽष्टादश चात्राधिकारिणः । द्विसहस्रास् सप्तशताश्चत्वा रिंशच्च कारिणः ।। ६३ सहस्रे द्वे शते च द्वात्रिंशच्च परिचारिकाः । योषितास्तासु नर्त्तक्यष् षट्छता दश पञ्च च ।। ६४ अयुतं द्विसहस्राष् पट्छताः पिण्डीकृताः पुनः । चत्वारिंशच्च सर्व्वे ते सार्द्धं तत्स्थितिदायभिः ।। ६५ षट्सहस्राष् षडयुताष् षट्छताः पञ्चविशतिः । स्त्रीपुंसा गणितास्तत्र देवपूजानि दायिनः ॥ ६६ एते सप्तायुताः पिण्डीकृता नवसहस्रकाः त्रिंशता पञ्चषष्टिश्च पुकांचाम्पादिभिस् सह ।। ६७ प्रासादादिकरङ्कादिकृतस्वर्णाणि विंशतिः । अष्टौ भाराश्चतस्रश्च तुलाः पादौ च कट्टिकाः ॥ ६८ पञ्चविंशति भाराश्च रूप्याणां दश पञ्च च । तुला द्वे कट्टिके द्वौ च पादौ पणचतुष्टयम् ।। ६९ पञ्चत्रिंशच्च वज्राणि मौक्तिकव्यजनद्वयम् । विंशतिष षट्छता मुक्तास्तथायुतचतुष्टयम् ॥ ७० शतानि पञ्च चत्वारि सहस्रानि च संख्यया । चत्वारिंशच्च वैदूर्य्यरक्ताश्मादिमभाश्मनाम् ।। ७१ ताम्रस्य च शतं भारा विंशतिश्च त्रयोदश । त्रयोदश तुलाश्चैका कट्टी पञ्च पणा अपि ।। ७२ कंसस्य तु सहस्र द्वे भारास्त्रीणि शतानि च । नवत्रिंशच्च गणितास्तुलास सप्तदशापि च ।। ७३ सुवर्णपटलं सार्द्धं चतुर्व्विंशतिभारकम् । लोहस्यैका तुला भाराष् षट्छता दश पञ्च च ॥ ७४ कढ्ढ्यो दश तुलास् सप्त भाराः पञ्चदश त्रपु । सीसञ्चतुश्शता भाराः सप्तत्रिंशत्तुलार्द्धकम् ।। ७५ सप्तषष्टिः पुनश्चीनपटा नव शतानि च । तथा द्वादश कौशेयशय्याः पञ्च शतानि च ।। ७६ शतानि पञ्चातपत्रप्रमुखा विंशतिस्त्रयः । नवत्रिंशच्च वलभिप्रासादाः पिण्डिताः पुनः ।। ७७ शतानि पञ्च षट्षष्टिः खण्डान्युपलवेश्मनाम् । इष्टकावेश्मनां खण्डान्यष्टाशीतिश् शतद्वयम् ॥ ७८ षट्सप्ततिस्तु विस्तारे व्यामा वापितटाकयोः । शतं सहस्रं पञ्चाशदायामेन तु पिण्डिताः ।। ७९ शर्क्करौघोपलकृतप्राकाराणां समन्ततः । व्यामास् सहस्रे द्वे सप्त शतानि द्वौ च संख्यया ॥ ८० चतुश्शतानि च नवत्रिंशच्चात्र विपश्चितः । प्रत्यहं भोजिता राजमन्दिरे धर्म्मधारिणः ॥ ८१ शतानि नव चाध्येतृवासिनस् सप्ततिस्तथा । चतुश्शतास् सहस्रन्ते सर्व्वे नव च पिण्डिताः ।। ८२ चैत्राष्टम्यास् समारभ्य यावत्तत्पूर्णिमातिथिः । सुवसन्तोत्सवविधिर्वंशारामजिनागमे ॥ ८३ वर्षे वर्षे कृतस्तस्या भगवत्या यथागमम् । पूर्णं सर्व्वोपकरणैस्तत्र यागद्वयं कृतम् ॥ ८४ भगवान् भगवत्यासौ चतुर्द्दश्यां प्रदक्षिणम् । त्रिः कुर्य्यात पौर्णमास्याञ्च वीरशत्क्यादिभिस् सुरैः ॥ ८५ सान्द्रन्ध्वजातपत्राद्यैरम्बरं परितस्तदा । ताड्यमानाखिलातोद्यमन्द्रध्वनिमनोहरम् ॥ ८६ नर्त्तक्यो नर्तकाश्चात्र नृत्येयुः परितो दिशः । दानशीलादिकुशलं कुर्य्यु स् सर्व्वे च मानवाः ।। ८७ पूजिताश्च त्रिगुरवम् सहस्रन्देवतास्तदा । षट्छतानि पुनर्या (र्य)त्र देवा नवदशापि च ॥ ८८ भिक्षुद्विजाद्या विद्वांसस् सहस्रन्तत्र भोजिताः । गोभिक्षा एकनवतिर्नवाशीत्यङ्गुलीयकाः ॥ ८९ पिण्डितास्ते पणास् सप्त तुलितास्तपनीयकम् । शतं सहस्रं सप्तापि देववस्त्रादिवाससाम् ॥ ९० तिस्रो वृहतिका एकः कम्बलो नवविंशतिः । क्षुद्रवासांसि सार्द्धानि शाटिकाश्चापि विंशतिः ।। ९१ दान्तोपधानमेकञ्च दान्तं विचटनन्तथा । अष्टाशीतिसमुद्रास्तु सगन्धा एकदर्प्पणम् ॥ ९२ सहस्रञ्चषकाश् श्वेतत्रपु षड् विंशतिर तुलाः । श्रीवासकृष्णे तु समे तुले षोडश कट्टिकाः ।। ९३ नियुतं पञ्चषष्टिश्च सहस्राणि शतानि च । सप्त सिक्थप्रदीपानाञ्चत्वारिंशच्चतुष्टयम् ॥ ९४ सहस्रन्द्वे शते भारा द्वात्रिंशच्च तुले च तत् । सिक्थश्चुम्बल ताम्बूलमाल्यादीनि यथोचितम् ॥ ९५ षट्छता देवयज्ञादिपाक्या स्त्रिंशच्च तण्डलाः । खार्य्यस्त्रयोदश प्रस्था व्रीहिप्रस्थास्तु षोडश ॥ ९६ सार्द्धास्त्रिखार्य्यस् सार्द्धैकादश प्रस्थास्तिला अपि । मुद्रास्त्रिखारिका द्रोणः प्रस्थसार्द्धोप्यथो घृतम् ॥ ९७ घट्यौ च पञ्च प्रस्थाश्च सार्द्धा द्वे घटिके दधि । प्रस्थाश्चैकादश ततश्चतुःप्रस्थाधिकं पयः ॥ ९८ सप्त घट्यो मधु गुद्दो घट्यौ प्रस्था दशापि च । पादस्त्रिमाषाः कर्पूरन्तथा विम्बचतुष्टयम् ॥ ९९ एकादश तरुष्कस्य पञ्चा अष्टौ पणाः पुनः । नखं पादश्च माषश्च चतुर्विम्बन्तु हिङ्गुलम् ।। १०० चन्दनस्य द्विकयौ च त्रिपणाश्च त्रिपादकाः । कस्तूरिकाः पणो माषौ षड् विम्बान्यथ तैलकम् ।। १०१ प्रस्थो द्वौ कुदुवौ पादौ दश कट्ट्यस्तु नगरम् । गोभिक्षाद्यखिलञ्चैतद् ग्राह्यं कोषान् महीभृतः ।। १०२ राजकोशाद् ग्रहीतव्याः कल्पनाः प्रतिवत्सरम् | द्रोणौ द्वौ सप्ततिः खार्य्यस्तण्डुलानाञ्चतुश्शताः ।। १०३ तिलाष् षड्विंशतिः खार्य्यो द्रोणः प्रस्थचतुष्टयम् । मुद्रा द्रोणो दश प्रस्थास् सप्तत्रिंशश्च खारिकाः ।। १०४ घृतं षड्विंशतिर्घट्यो नव प्रस्थास्ततो दधि । चतुष्प्रस्थैकघटिकान्यूनं दध्ना समं पयः ॥ १०५ प्रस्थास् सप्तैकषष्टिश्च मधु घट्योऽथ षोड़श । आढंकोना गुद्दस्तैलं दश प्रस्था घटीत्रयम् ।। १०६ द्वे सहस्रे पुनस्त्रीणि शतानि युगलानि तु । तथा सप्तोत्तराशीतिर्देववस्त्रादिवाससाम् ।। १०७ शय्या वितानानि चतुर्विंशतिर्विंशतिः पुनः । उपधानानि षट्त्रिंशन्मशकावरणानि च ।। १०८ तृणजा विंशतिश्चीनशय्याश्चीनांशुकानि तु । विंशतिः पञ्च सिक्थन्तु भारो दश तुला अपि ।। १०९ पञ्च प्रस्थास्त्रयो द्रोणा मरिचानां द्विखारिके । चन्दनस्य तुलैका द्वादश कट्टास्त्रिपादकाः ।। ११० श्रीवासस्य तुलास्त्रिंशत् काट्टास् सार्द्धं त्रयोदश । कृष्णा द्वादश कट्ट्यस्तु तुलाः पञ्चदशापि च ॥ १११ कर्प्पूरस्य पुनर्द्वे च कट्टिके षटू पणा अपि । तरुष्कं द्वादशपणं कट्ट्येका च नखं पुनः ।। ११२ पञ्चाश्च दश कट्ट्वौ तु हिङ्गुलं पणपञ्चकम् । स्वर्णाङ्गुलीयगोभिक्षामंत्र चूर्णसमुद्रकाः ।। ११३ त्रिंशत् पणा अथ त्रिंशत्पणानि रजतान्यपि । कदाभादीनि ताम्राणि तुलास् सप्त द्विकट्टिके ।। ११४ त्रपूणि द्वितुले चीनसमुद्रशतपञ्चकम् । खार्य्यो द्वात्रिंशतिर्द्रोणत्रयञ्च लवणस्य तु ।। ११५ कृष्णत्रपु पुनस्त्रिंशत् तुला एकस्तुरङ्गमः । हिरण्यभूषणा धेनुः कपिला वत्ससंयुता ।। ११६ आरोग्यशाला विषये विषये द्वे शतन्तथा । तत्र सप्त शतान्यष्टानवतिश्चार्प्पितास् सुगः ।। ११७ देवतावासिरोग्यर्थं प्रत्यब्ढं व्रीहिखारिकाः । अयुतन्नियुतं सप्त सहस्राणि शतद्वयम् ॥ ११८ ग्रामा अष्ट शतान्यष्टात्रिंशत् स्त्रीपुरुषाः पुनः । चत्वारिंशत्सहस्रं षट्छता अष्टायुता अपि ।। ११९ राजकोष्ठादिदं ग्राह्य रैगोभिक्षाङ्गुलीयकाः । पणाष् षोड़श पादौ द्वौ त्रिमाषश्चानुवत्सरम् ॥ १२० देवार्हादीनि वासांसि षट्छतानि सहस्रकम् । चतुर्द्दश षणाः काट्ट--प्पट तुलैका च चन्दनम् ।। १२१ श्रीवासानां तुलास् सप्त कट्ट्योsष्टौ च चतुष्पणाः । कृष्णायाष् षट् तुला एकादश कट्टाः पणा दश ।। १२२ षट् तुलास्त्रिपणास् सिक्थं मधुनो घटिका पुनः । एकादशोत्तरशतं प्रस्था द्वादश सार्द्धकाः ।। १२३ घटिका द्वादश गुद्दा प्रस्थैर्द्वादशभिस् सह । दश घट्ट्यो नव प्रस्था घृतानि कुदुवद्वयम् || १२४ खारिका विंशतिर्द्वे च द्रोणश्चैकस्तिला अपि । त्रयोदश तुला द्वे च कट्टिके पिप्पली तथा ।। १२५ यवानीपिप्पलीरेणुपुन्नागा गणिता इमे । एकैकशस् सप्त पणास्त्रयोदश च कट्टिकाः ।। १२६ चतुश्श्तञ्जातीफलं त्रिसहस्त्रं द्वयन्तथा । क्षारजीर्णे समे कट्टाष् षट् पणाश्च चतुर्द्दश ॥ १२७ तिस्रः कट्ट्यो द्विकर्प्पूरौ पणः पादौ त्रिमाषकाः । शर्क्कराणां तुले कट्ट्यस्त्रयोदश पणाष्टकम् ।। १२८ सप्ततिस्तु दङ्दङ्साख्यास् सहस्रे षट् छतानि च । शतपुष्पं तुला कट्टाष् षड् द्वादश पणा अपि ।। १२९ धान्यस्य द्वादश तुलास्तथा षोड़श कट्टिकाः । चतुर्द्दश पणाश्चाथ कर्क्कोलमरिचे समे ।। १३० कट्टास्त्रयोदश तथा पणास् सप्तैलिका अपि । एकादश तुलाः कट्टास्तिस्रुस् सप्तपणाधिकाः ।। १३१ एकादश तुला कट्ट्यष् षोड़शापि प्रचीबलम् । सर्षपाणि पुनर्द्रोणः प्रस्थेर्द्वादशभिस् सह ।। १३२ सहस्रमयुते पथ्यात्वचौ तु त्रिशते समे । षष्टिश्च दार्व्वीखण्डानि त्वष्टाषष्टिस् सहस्रकम् ।। १३३ कन्दङ्हर्लाय् जनस्यङ्देवदारुच्छव्यं तुले समम् । देवमित्तन्तुला कट्ट्यस्त्रयोश पणाश्च षट् ।। १३४ भैषज्याम्लानि घटेयका चत्वारिंशच्च सङ्ख्यया । सार्द्धश्चैकादश प्रस्थाश्चर्म्माङ्द्दान्यष्ट खारिकाः ।। १३५ कल्कानि दशमूलानां लसुनानाञ्च संख्यया । अयुतानि च चत्वारि सहस्राण्यष्ट चैकशः ।। १३६ अर्शश्शमनभैषज्यसमुद्रानां सहस्रकम् । शतानि नव षष्टिश्च हिङ्गूनान्नव कट्टिकाः ।। १३७ सप्त रम्भादितैलानां प्रस्था घट्यस्त्रयोदश । शतं द्वादश घट्यश्च प्रस्थाश्चाष्टौ निदिग्धिकाः ॥ १३८ शुन्थ्यः सप्त पणाः कट्यस्त्रयोदश तुलात्रयम् । कोष्ठानि त्रिपणाः पादौ द्वौ चैकादशकट्टिकाः ।। १३९ पलन्दूनां पुनः खार्य्यस् सप्त द्रोणद्वयन्तथा । लसुनानां पुनः खार्य्यस्तिस्रो द्रोणद्वयाधिकाः ॥ १४० कुर्व्वन्निमानि सुकृतान्यतिमात्रमातृ- भक्त्या व्यधात् प्रणिधिमेवमसौ क्षितीन्द्रः । एभिश् शुभैर्म्मम कृतैर्भविनां भवाब्धे- रुत्तारणाय भजतां जननी जिनत्वम् ।। १४१ धर्म्मस्थितिं परकृतां विकृतान् दुरात्म- भग्नाञ्च सोऽवनिपतिस् स्थितिरक्षणार्थि । दृष्टावबन्ध्य च दृढ़ं पुनरेवमाह रक्षिष्यतस् स्थितिमनागतकम्बुजेन्द्रान् ।। १४२ मातुर्निरर्घमुपकारमवेक्ष्य भक्त्या जहुयर्निजायुरपि मातृकृते कृतज्ञाः । तद्भूधरा विदितवानपि मत्प्रतिष्ठा- रक्षोत्सुकन् स्वयमतृप्ततयार्थये वः ॥ १४३ तां स्थेयसीमपि विधातुमुपप्लवेभ्यो रक्ष्या भवद्भिरिह देवभुजिष्यकस्थे । काष्ठोपलप्रभृति किञ्चन देवकार्य्य- स्याङशञ्च हारकविकारकराधमेभ्यः ।। १४४ श्रीसूर्य्यकुमाराख्यश् श्रीजयवर्म्मावनाभुजो जातः । राजकुमारोऽग्रण्यान्देव्यामकरोत्प्रशस्तमिदम् ।। १४५ Transliteration: sambhāra vistaravibhāvitadharmma kāya- sambhoganirmitivapurbhagavān vibhaktaḥ | yo gocaro jinajinātmajadehabhājāṃ buddhāya bhūtaśaraṇāya namo’stu tasmai || 1 bande niruttaramanuttam bodhimārggaṃ bhūtārthadarśananirāvaraṇaikadṛṣṭim | dharmmantrilokaviditāmaravandyavandya- mantarvasatṣaḍariṣaṇḍavikhaṇḍakhaḍgam || 2 samyagavimuktiparipanthitayā vimukta- soṅgo’pi santatagṛhīta parārthasaṅgaḥ | saṅgīyamānajinaśāsanaśāsitānyān saṅgo’bhisaṃhitahitaprabhavo’vatād vaḥ || 3 trailokyakāṅkṣitaphalaprasavaikayoni- ragrāṅguliviṭapabhūṣitabāhuśākhaḥ | hemopavītalatikāparivīta kāyo lokeśvaro jayati jaṅgamapārijātaḥ || 4 munīndravarmmāgrasarīṃ guṇāḍhyā- ndhīmadbhiradhyātmadṛśā nirīkṣyām | nirastaniś śeṣavikalpajālāṃ bhatayā jinānāṃ jananīṃ namadhvam || 5 āsīdakhaṇḍamanudaṇḍadharāvanīndra- vandyo varaś śrutavatāṃ śrutavarmmasūnūḥ | śrīśreṣṭhavarmanṛpatiś śucibhiryaśobhiś śreṣṭo’vadātavasudhādharavaṃśayoniḥ || 6 śrīkambuvaṃśāmbarabhāskaro yo jāto jayādityapurodayādrau | prābovayat prāṇahṛdambujāni tejānidhiśa śreṣṭhapurādhirājaḥ || 7 jātā tadīye navagītakīrtti- candrollasanmātṛkulāmburāśau | rarāja lakṣmīriva yā satīnā- magre sarī kambujarājalakṣmīḥ || 8 bhartto bhuvo bhavapure bhavavarmma devo vibhrājamānarūcirañjitamaṇḍalo yaḥ | pūrṇaḥ kalābhiravanīndrakulaprasuneḥ karttāmṛtāṃśuriva tāpaharaḥ prajānām || 9 sarvvānavadyavinayadyutivikramo ya- stadvaṃśajo janitaviśvajanīnavṛttiḥ | śrīharṣavarmmanṛpatirhatavairiharṣo janyeṣu diṅmukhavikīrṇayaśoditānaḥ || 10 mahībhujā śrī jayarājacūḍā- maṇirmahiṣyāmudapādi tena | tasyāṃ yaśaścandramarī cigaurā gaurīva gaurīguruṇāgradevyam || 11 vāgīśvarīvātiśayairgirāṃ yā dhātrīva dhṛtyā kamaleva kāntyā | arundhatīva navagītavṛttyā tyāgādinā mūrttimatīva maittrī || 12 śrīmadyaśodharapure’dhigatādhirājyo rājā jitārivisaro jayavarmmadevaḥ | āvāridheḥ pratidiśannicakhāna kīrtti- stambha n mahīdharapurābhijanāspado yaḥ || 13 tadbhagineyo vinayorjita-ś śrī- mahīdharāditya iti pratītaḥ | śrīsūryyadharmmāvanipālamātṛ- jaghanyajo yo vijitārivarggaḥ || 14 ślādhyāvadātānvayadīpakena virājitā rājapatondralakṣmīḥ | vikhyātacāritravareṇa rāja- patīśvaragrāmakṛtasthitiryā || 15 tayostanūjo mahitadvajendro dvijendravego dvijarājakāntaḥ | dikcakravālotkaṭakīrttigandho yo’dhīśvaraś śrīdharaṇīndravarmmā || 16 śākyenduśāsanasudhājanitātmatṛpti- rbhikṣudvijārthijanasātkṛtabhūtisāraḥ | sārañjighṛkṣuraśubhāyatanādasārāt kāyādajasrajinapādakṛtānatiryaḥ || 17 eṣā śrījayavarmmadevanṛpatindedīpyamānaujasan tasmādvīramajījanat kṣitibhujaś śroharṣavarmmātmajā | brahmarṣariva devarāja maditidevī sudharmmāśritaṃ gontuṃ gāṃ śatakoṭiheti vihatārātipravīraṃ raṇe || 18 śaṇmāturasya vividhantu vapuḥ prahṛṣṭai- rekaṃ kṛtaṃ vidhiravekṣya vidhitsuratthem | gāḍhopagūhanamudā haraśāṅgayanaṅgā- daiśvaryyaśauryyavapurekanidhiṃ vyadhād yam || 19 yaṃ prāpya kāntamanavadyaguṇaikarāgī ma.śasitantu dharaṇīndrabhujāṅgajātam | prācyānnikāmagaṇikā rucimapyapāsya dhātrī ratiṃ vidadhatī suṣuve śubhāni || 20 āsphālitabhramitavairikarīndraśaila- rājo bhujoratibalena raṇāmbudhau yaḥ | lakṣmīsita dviradarājaturaṅgaratra- prāpto harerjaladhimanthanamanvakārṣit || 21 śaṅke samastaguṇasaṃmatiraṃśumāli- vaṃśodbhavo’vanipatondravaraṅgatnam | gacchatyayammama kṛte samitītyatīva- harṣā yamājikamalā dṛḍhamāliliṅge || 22 yasyābdhipāragirikānanagītakīrtti śrutvottarottaragatiyudhi vidrutāriḥ | dhāma smaranniba viḍambitavān sisṛkṣūn dākṣīnanantagamanānavanīṃ pramātum || 23 manye yadīyayaśasāṃ sadṛśo yadi syā- dratnākaraśca bhuvanatritayañca viṣṇuḥ | nāharttamūdhvemavanīmaśakat samudrāt koṭikramairapi na laṅghayituñca lokān || 24 anekadhānekajagatsubhinno- ’pyātmaikatā tu sphuṭamasya satyā | sukhāni duḥkhāni yadātmabhājā- mātmanyadhāt suhṛdaye yadīye || 25 saṃprāpya yanmakhamakhaṇḍamatīvatṛpti- rākhaṇḍalo nu janamejayaśāpatāpam | utsṛjya hṛṣṭahṛdayastridivasya bhūme- stene vibhūtibhirabhūmibhavābhiraikyam || 26 anaṅgakānto’dbhutaśastraśikṣas saṃmohanenaiva cakāra nidrām | ṭurvvāravairīndrakule raṇe yo vinidratāntatpramadāsamūdde || 27 campāgatasya yudhi yasya gṛhītamukta- tadbhudharasya caritāmṛtamanyabhūpaiḥ | śrutvā natairhṛtamivāñjalibhirvarāṅge siktaṃ mahohutavaho ditatāpaśāntyai || 28 suvarṇadaṇḍavyajanātapatra- māyūraketudhvajapajhacīraiḥ | rājyābhiṣeke śivikāṃ nṛpārhāṃ haimīṃ gurau prādita dakṣiṇāṃ yaḥ || 29 dideśa yaś śrījayamaṅgalārtha- devābhidhānaṃ priyamāspadañca | grāmaṃ gurau rājapatīndrapūrvvaṃ kule ca tasyāvanibhṛtkulākhyām || 30 bhaktayā ca yo mātari ratnamañca- śayyālasadrājagṛhaikabhāgam | hiraṇyayaṣṭidhvajacāmarādi- ramyāñca haimīṃ śivikāmayacchat || 31 bhūbhāgamekañca vibhūtibhārai- rāḍhyīkṛtaṃ prādita pūrvvaje yaḥ | ratnasphurantīṃ śivikāñca hema- daṇḍadhvajādyairabhito vikīrṇām || 32 tasyāgrajasyāgravadhūṣu devī- svāminyabhikhyāmapi yo vyatārīt | tadīyamukhyānucareṣu senā- pateśca rājānucareṣvivākhyām || 33 vibhajya bhojyādyapi yaścaturdhā- diśan gurau mātari pūrvvaje pi | bhaktyāvaśiṣṭaṃ bubhuje hiraṇya- kirīṭaratnādiṣu kaiva vāṇī || 34 utpāditā tena bhujā gṛhīta- dhātryāṃ purī rājavibhāranāmnī | ratnollasatsvarṇa vibhūṣitāṅgī munīndramāturbharaṇe niyuktā || 35 prātiṣṭhipacchrī jayarājacūḍā- maṇiṃ maṇidyotitapuṇyadehām | tasyāñjananyā jinamātṛmūrttiṃ mūrttiṃ samūrttidyuśaśāṅkarūpaiḥ || 36 so’tiṣṭhipacchrījayamaṅgalārtha- devaṃ tathā śrījayakīrttidevam | mūrttiṃ gurordakṣiṇavāma . . . ya-ṣ ṣaṣṭiṃ śate dve parivāradevān || 37 tasyās saparivārāyāḥ pūjāṅśāni dine | droṇau pākyākṣatāḥ prasthau trayassaptatikhārikāḥ || 38 tilā ekādaśa prasthā droṇau dvau kuduvāvapi | dvau droṇau kuduvau mudrāḥ kaṅka prasthāśrvatuddeśa || 39 ghṛtaṃ ghaṭī trikuduvaṃ dadhikṣīramadhūni tu | adhikānyekaśastasmāt saptaprasthairguddaḥ punaḥ || 40 ghaṭī prasthau dvikuduvau tailaṃ prasthatrayaṃstathā | kuduvau dvau taruphalasnehastu kuduva trayam || 41 pūjopakaraṇādīni phalaśākamukhāni tu | noktānyatra prasiddhatvādvijñeyāni yathocitam || 42 devavastrādivasrāṇāṃ yugalāni śatāni ṣaṭa | catvāriṃśacca yugalānyadhyarddhayugale api || 43 devatāpādavinyāsamaśa kārthaprasāritāḥ | cīnāṃśukamayāḥ pañcacatvāriṃśatpaṭā api || 44 sattāṇyadhyāpakādhyetṛvāsināṃ prativāsaram | svāryyaścaturddaśa droṇaḥ pañca prasthāśca taṇḍulāḥ || 45 aṣṭādaśotsave pyatra saṅkrānte prativatsaram | aṣṭamyāñca caturdaśyāṃ pañcadaśyāñca pakṣayoḥ || 46 viśiṣṭāstaṇḍulāḥ pākyāḥ khāryyaḥ pañcadaśādhikam | sahastraṃ ṣaṣṭiraṣṭau ca droṇena saha piṇḍitāḥ || 47 catvāriṃśattilāḥ khāryyaḥ khārībhyāṃ mudrakāstataḥ | tridroṇaiścādhikāḥ pañcaviṃśatirghaṭikā ghṛtam || 48 ekatriṃśaddadhikṣīre pratyekaṃ ghaṭikā madhu | ekonaviṃśatistena guddastulyo’tha tailakam || 49 kuduvau ghaṭikāḥ pañcadaśāthāṣṭa śatāni ca | dvayaśītirdevavasrādiyugalāni sahasrakam ||50 ayute dve sahasrāṇi khāryyo’ṣṭau pākyataṇḍulāḥ | catvāriṃśattathā droṇaḥ piṇḍitāḥ prativatsaram || 51 niyutañcāyutaṃ dve ca sahasre vrīhiyaś śatam | tadarthā ekaṣaṣṭiśca sañcayāya caturguṇaiḥ || 52 grāhmāścatussahasrāṇi grāmādibhyaśca taṇḍulāḥ | khārikā navatistisro droṇo dvau kuduvāvapi || 53 khāryyaś śataṃ trayośītirdroṇau prasthāśca ṣaṭ tilāḥ | mudrā droṇau daśa prāsthā dvau ca khāryyaś śate daśa || 54 catuśśatāni ghaṭikā nava prasthā ghṛtaṃ dadhi | sapta prasthāstathā sapta ghaṭyaḥ pañca śatāni ca || 55 prastho’śītiṣ ṣaṭ ca ghaṭyaḥ payaḥ pañca śatāni ca | madhu pañca śatānyaṣṭatriśacca prasthapañcalam || 56 catuśśatāni ghaṭikā guho’śītyuttarāṇi ca | atha trayodaśa prasthāstailantatparimāṇakam || 57 pañca prasthāḥ pañca ghaṭyas snehastaruphalasya ca | tantuvāyagṛhād grāmādāpaṇādeśca vāsasām || 58 yugalānāṃ sahasrāṇi catvāriṃśacca pañcakam | grahītavyāni navatistathārddhaṃ yugalasya ca || 56 madhūcchiṣṭasya bhārāstu gaṇitā daśa sapta ca | aṣṭādaśa tulāḥ pañca kaṭṭayo nava paṇāstathā || 60 sīsānāmekapañcāśadbhārā daśa tulā api | tisraśca kaṭṭikaikaśco dve dāsyau dvau ca dantinau ||| 61 rājñā dattās svayandattā grāmavadbhiśca bhaktitaḥ | sahasratritayaṃ grāmāścatvāriṃśattathā śatam || 62 catuśśatāḥ pumāṃso’ṣṭādaśa cātrādhikāriṇaḥ | dvisahasrās saptaśatāścatvā riṃśacca kāriṇaḥ || 63 sahasre dve śate ca dvātriṃśacca paricārikāḥ | yoṣitāstāsu narttakyaṣ ṣaṭchatā daśa pañca ca || 64 ayutaṃ dvisahasrāṣ paṭchatāḥ piṇḍīkṛtāḥ punaḥ | catvāriṃśacca sarvve te sārddhaṃ tatsthitidāyabhiḥ || 65 ṣaṭsahasrāṣ ṣaḍayutāṣ ṣaṭchatāḥ pañcaviśatiḥ | strīpuṃsā gaṇitāstatra devapūjāni dāyinaḥ || 66 ete saptāyutāḥ piṇḍīkṛtā navasahasrakāḥ triṃśatā pañcaṣaṣṭiśca pukāṃcāmpādibhis saha || 67 prāsādādikaraṅkādikṛtasvarṇāṇi viṃśatiḥ | aṣṭau bhārāścatasraśca tulāḥ pādau ca kaṭṭikāḥ || 68 pañcaviṃśati bhārāśca rūpyāṇāṃ daśa pañca ca | tulā dve kaṭṭike dvau ca pādau paṇacatuṣṭayam || 69 pañcatriṃśacca vajrāṇi mauktikavyajanadvayam | viṃśatiṣa ṣaṭchatā muktāstathāyutacatuṣṭayam || 70 śatāni pañca catvāri sahasrāni ca saṃkhyayā | catvāriṃśacca vaidūryyaraktāśmādimabhāśmanām || 71 tāmrasya ca śataṃ bhārā viṃśatiśca trayodaśa | trayodaśa tulāścaikā kaṭṭī pañca paṇā api || 72 kaṃsasya tu sahasra dve bhārāstrīṇi śatāni ca | navatriṃśacca gaṇitāstulāsa saptadaśāpi ca || 73 suvarṇapaṭalaṃ sārddhaṃ caturvviṃśatibhārakam | lohasyaikā tulā bhārāṣ ṣaṭchatā daśa pañca ca || 74 kaḍhḍhyo daśa tulās sapta bhārāḥ pañcadaśa trapu | sīsañcatuśśatā bhārāḥ saptatriṃśattulārddhakam || 75 saptaṣaṣṭiḥ punaścīnapaṭā nava śatāni ca | tathā dvādaśa kauśeyaśayyāḥ pañca śatāni ca || 76 śatāni pañcātapatrapramukhā viṃśatistrayaḥ | navatriṃśacca valabhiprāsādāḥ piṇḍitāḥ punaḥ || 77 śatāni pañca ṣaṭṣaṣṭiḥ khaṇḍānyupalaveśmanām | iṣṭakāveśmanāṃ khaṇḍānyaṣṭāśītiś śatadvayam || 78 ṣaṭsaptatistu vistāre vyāmā vāpitaṭākayoḥ | śataṃ sahasraṃ pañcāśadāyāmena tu piṇḍitāḥ || 79 śarkkaraughopalakṛtaprākārāṇāṃ samantataḥ | vyāmās sahasre dve sapta śatāni dvau ca saṃkhyayā || 80 catuśśatāni ca navatriṃśaccātra vipaścitaḥ | pratyahaṃ bhojitā rājamandire dharmmadhāriṇaḥ || 81 śatāni nava cādhyetṛvāsinas saptatistathā | catuśśatās sahasrante sarvve nava ca piṇḍitāḥ || 82 caitrāṣṭamyās samārabhya yāvattatpūrṇimātithiḥ | suvasantotsavavidhirvaṃśārāmajināgame || 83 varṣe kṛtastasyā bhagavatyā yathāgamam | pūrṇaṃ sarvvopakaraṇaistatra yāgadvayaṃ kṛtam || 84 bhagavān bhagavatyāsau caturddaśyāṃ pradakṣiṇam | triḥ kuryyāta paurṇamāsyāñca vīraśatkyādibhis suraiḥ || 85 sāndrandhvajātapatrādyairambaraṃ paritastadā | tāḍyamānākhilātodyamandradhvanimanoharam || 86 narttakyo nartakāścātra nṛtyeyuḥ parito diśaḥ | dānaśīlādikuśalaṃ kuryyu s sarvve ca mānavāḥ || 87 pūjitāśca triguravam sahasrandevatāstadā | ṣaṭchatāni punaryā (rya)tra devā navadaśāpi ca || 88 bhikṣudvijādyā vidvāṃsas sahasrantatra bhojitāḥ | gobhikṣā ekanavatirnavāśītyaṅgulīyakāḥ || 89 piṇḍitāste paṇās sapta tulitāstapanīyakam | śataṃ sahasraṃ saptāpi devavastrādivāsasām || 90 tisro vṛhatikā ekaḥ kambalo navaviṃśatiḥ | kṣudravāsāṃsi sārddhāni śāṭikāścāpi viṃśatiḥ || 91 dāntopadhānamekañca dāntaṃ vicaṭanantathā | aṣṭāśītisamudrāstu sagandhā ekadarppaṇam || 92 sahasrañcaṣakāś śvetatrapu ṣaḍ viṃśatira tulāḥ | śrīvāsakṛṣṇe tu same tule ṣoḍaśa kaṭṭikāḥ || 93 niyutaṃ pañcaṣaṣṭiśca sahasrāṇi śatāni ca | sapta sikthapradīpānāñcatvāriṃśaccatuṣṭayam || 94 sahasrandve śate bhārā dvātriṃśacca tule ca tat | sikthaścumbala tāmbūlamālyādīni yathocitam || 95 ṣaṭchatā devayajñādipākyā striṃśacca taṇḍalāḥ | khāryyastrayodaśa prasthā vrīhiprasthāstu ṣoḍaśa || 96 sārddhāstrikhāryyas sārddhaikādaśa prasthāstilā api | mudrāstrikhārikā droṇaḥ prasthasārddhopyatho ghṛtam || 97 ghaṭyau ca pañca prasthāśca sārddhā dve ghaṭike dadhi | prasthāścaikādaśa tataścatuḥprasthādhikaṃ payaḥ || 98 sapta ghaṭyo madhu guddo ghaṭyau prasthā daśāpi ca | pādastrimāṣāḥ karpūrantathā vimbacatuṣṭayam || 99 ekādaśa taruṣkasya pañcā aṣṭau paṇāḥ punaḥ | nakhaṃ pādaśca māṣaśca caturvimbantu hiṅgulam || 100 candanasya dvikayau ca tripaṇāśca tripādakāḥ | kastūrikāḥ paṇo māṣau ṣaḍ vimbānyatha tailakam || 101 prastho dvau kuduvau pādau daśa kaṭṭyastu nagaram | gobhikṣādyakhilañcaitad grāhyaṃ koṣān mahībhṛtaḥ || 102 rājakośād grahītavyāḥ kalpanāḥ prativatsaram | droṇau dvau saptatiḥ khāryyastaṇḍulānāñcatuśśatāḥ || 103 tilāṣ ṣaḍviṃśatiḥ khāryyo droṇaḥ prasthacatuṣṭayam | mudrā droṇo daśa prasthās saptatriṃśaśca khārikāḥ || 104 ghṛtaṃ ṣaḍviṃśatirghaṭyo nava prasthāstato dadhi | catuṣprasthaikaghaṭikānyūnaṃ dadhnā samaṃ payaḥ || 105 prasthās saptaikaṣaṣṭiśca madhu ghaṭyo’tha ṣoḍaśa | āḍhaṃkonā guddastailaṃ daśa prasthā ghaṭītrayam || 106 dve sahasre punastrīṇi śatāni yugalāni tu | tathā saptottarāśītirdevavastrādivāsasām || 107 śayyā vitānāni caturviṃśatirviṃśatiḥ punaḥ | upadhānāni ṣaṭtriṃśanmaśakāvaraṇāni ca || 108 tṛṇajā viṃśatiścīnaśayyāścīnāṃśukāni tu | viṃśatiḥ pañca sikthantu bhāro daśa tulā api || 109 pañca prasthāstrayo droṇā maricānāṃ dvikhārike | candanasya tulaikā dvādaśa kaṭṭāstripādakāḥ || 110 śrīvāsasya tulāstriṃśat kāṭṭās sārddhaṃ trayodaśa | kṛṣṇā dvādaśa kaṭṭyastu tulāḥ pañcadaśāpi ca || 111 karppūrasya punardve ca kaṭṭike ṣaṭū paṇā api | taruṣkaṃ dvādaśapaṇaṃ kaṭṭyekā ca nakhaṃ punaḥ || 112 pañcāśca daśa kaṭṭvau tu hiṅgulaṃ paṇapañcakam | svarṇāṅgulīyagobhikṣāmaṃtra cūrṇasamudrakāḥ || 113 triṃśat paṇā atha triṃśatpaṇāni rajatānyapi | kadābhādīni tāmrāṇi tulās sapta dvikaṭṭike || 114 trapūṇi dvitule cīnasamudraśatapañcakam | khāryyo dvātriṃśatirdroṇatrayañca lavaṇasya tu || 115 kṛṣṇatrapu punastriṃśat tulā ekasturaṅgamaḥ | hiraṇyabhūṣaṇā dhenuḥ kapilā vatsasaṃyutā || 116 ārogyaśālā viṣaye viṣaye dve śatantathā | tatra sapta śatānyaṣṭānavatiścārppitās sugaḥ || 117 devatāvāsirogyarthaṃ pratyabḍhaṃ vrīhikhārikāḥ | ayutanniyutaṃ sapta sahasrāṇi śatadvayam || 118 grāmā aṣṭa śatānyaṣṭātriṃśat strīpuruṣāḥ punaḥ | catvāriṃśatsahasraṃ ṣaṭchatā aṣṭāyutā api || 119 rājakoṣṭhādidaṃ grāhya raigobhikṣāṅgulīyakāḥ | paṇāṣ ṣoḍaśa pādau dvau trimāṣaścānuvatsaram || 120 devārhādīni vāsāṃsi ṣaṭchatāni sahasrakam | caturddaśa ṣaṇāḥ kāṭṭa--ppaṭa tulaikā ca candanam || 121 śrīvāsānāṃ tulās sapta kaṭṭyosṣṭau ca catuṣpaṇāḥ | kṛṣṇāyāṣ ṣaṭ tulā ekādaśa kaṭṭāḥ paṇā daśa || 122 ṣaṭ tulāstripaṇās sikthaṃ madhuno ghaṭikā punaḥ | ekādaśottaraśataṃ prasthā dvādaśa sārddhakāḥ || 123 ghaṭikā dvādaśa guddā prasthairdvādaśabhis saha | daśa ghaṭṭyo nava prasthā ghṛtāni kuduvadvayam || 124 khārikā viṃśatirdve ca droṇaścaikastilā api | trayodaśa tulā dve ca kaṭṭike pippalī tathā || 125 yavānīpippalīreṇupunnāgā gaṇitā ime | ekaikaśas sapta paṇāstrayodaśa ca kaṭṭikāḥ || 126 catuśśtañjātīphalaṃ trisahastraṃ dvayantathā | kṣārajīrṇe same kaṭṭāṣ ṣaṭ paṇāśca caturddaśa || 127 tisraḥ kaṭṭyo dvikarppūrau paṇaḥ pādau trimāṣakāḥ | śarkkarāṇāṃ tule kaṭṭyastrayodaśa paṇāṣṭakam || 128 saptatistu daṅdaṅsākhyās sahasre ṣaṭ chatāni ca | śatapuṣpaṃ tulā kaṭṭāṣ ṣaḍ dvādaśa paṇā api || 129 dhānyasya dvādaśa tulāstathā ṣoḍaśa kaṭṭikāḥ | caturddaśa paṇāścātha karkkolamarice same || 130 kaṭṭāstrayodaśa tathā paṇās saptailikā api | ekādaśa tulāḥ kaṭṭāstisrus saptapaṇādhikāḥ || 131 ekādaśa tulā kaṭṭyaṣ ṣoḍaśāpi pracībalam | sarṣapāṇi punardroṇaḥ prastherdvādaśabhis saha || 132 sahasramayute pathyātvacau tu triśate same | ṣaṣṭiśca dārvvīkhaṇḍāni tvaṣṭāṣaṣṭis sahasrakam || 133 kandaṅharlāy janasyaṅdevadārucchavyaṃ tule samam | devamittantulā kaṭṭyastrayośa paṇāśca ṣaṭ || 134 bhaiṣajyāmlāni ghaṭeyakā catvāriṃśacca saṅkhyayā | sārddhaścaikādaśa prasthāścarmmāṅddānyaṣṭa khārikāḥ || 135 kalkāni daśamūlānāṃ lasunānāñca saṃkhyayā | ayutāni ca catvāri sahasrāṇyaṣṭa caikaśaḥ || 136 arśaśśamanabhaiṣajyasamudrānāṃ sahasrakam | śatāni nava ṣaṣṭiśca hiṅgūnānnava kaṭṭikāḥ || 137 sapta rambhāditailānāṃ prasthā ghaṭyastrayodaśa | śataṃ dvādaśa ghaṭyaśca prasthāścāṣṭau nidigdhikāḥ || 138 śunthyaḥ sapta paṇāḥ kaṭyastrayodaśa tulātrayam | koṣṭhāni tripaṇāḥ pādau dvau caikādaśakaṭṭikāḥ || 139 palandūnāṃ punaḥ khāryyas sapta droṇadvayantathā | lasunānāṃ punaḥ khāryyastisro droṇadvayādhikāḥ || 140 kurvvannimāni sukṛtānyatimātramātṛ- bhaktyā vyadhāt praṇidhimevamasau kṣitīndraḥ | ebhiś śubhairmmama kṛtairbhavināṃ bhavābdhe- ruttāraṇāya bhajatāṃ jananī jinatvam || 141 dharmmasthitiṃ parakṛtāṃ vikṛtān durātma- bhagnāñca so’vanipatis sthitirakṣaṇārthi | dṛṣṭāvabandhya ca dṛḍhaṃ punarevamāha rakṣiṣyatas sthitimanāgatakambujendrān || 142 māturnirarghamupakāramavekṣya bhaktyā jahuyarnijāyurapi mātṛkṛte kṛtajñāḥ | tadbhūdharā viditavānapi matpratiṣṭhā- rakṣotsukan svayamatṛptatayārthaye vaḥ || 143 tāṃ stheyasīmapi vidhātumupaplavebhyo rakṣyā bhavadbhiriha devabhujiṣyakasthe | kāṣṭhopalaprabhṛti kiñcana devakāryya- syāṅaśañca hārakavikārakarādhamebhyaḥ || 144 śrīsūryyakumārākhyaś śrījayavarmmāvanābhujo jātaḥ | rājakumāro’graṇyāndevyāmakarotpraśastamidam || 145
Additional Information: To guarantee people's ongoing well-being, various medical provisions are supplied here.It emphasizes the significance placed on people's health.
Mandal:
District:
City:
Resource Type Level 2:
Location Link:
Medical System: Ayurveda
Time Period Sort Value:
Evidence Name: Primary medical Evidences
Identifier Number at Source:
Dynasty:
King:
Source Current Location: